नासदीय सूक्तः [Nāsadīya Sūktaḥ] [English translation]

Songs   2024-10-05 21:38:33

नासदीय सूक्तः [Nāsadīya Sūktaḥ] [English translation]

नासदासीन्नो सदासीत्तदानीं नासीद्रजो नो व्योमा परो यत् ।

किमावरीवः कुह कस्य शर्मन्नम्भः किमासीद्गहनं गभीरम् ॥ १॥

न मृत्युरासीदमृतं न तर्हि न रात्र्या अह्न आसीत्प्रकेतः ।

आनीदवातं स्वधया तदेकं तस्माद्धान्यन्न परः किञ्चनास ॥२॥

तम आसीत्तमसा गूहळमग्रे प्रकेतं सलिलं सर्वाऽइदम् ।

तुच्छ्येनाभ्वपिहितं यदासीत्तपसस्तन्महिनाजायतैकम् ॥३॥

कामस्तदग्रे समवर्तताधि मनसो रेतः प्रथमं यदासीत् ।

सतो बन्धुमसति निरविन्दन्हृदि प्रतीष्या कवयो मनीषा ॥४॥

तिरश्चीनो विततो रश्मिरेषामधः स्विदासीदुपरि स्विदासीत् ।

रेतोधा आसन्महिमान आसन्त्स्वधा अवस्तात्प्रयतिः परस्तात् ॥५॥

को अद्धा वेद क इह प्र वोचत्कुत आजाता कुत इयं विसृष्टिः ।

अर्वाग्देवा अस्य विसर्जनेनाथा को वेद यत आबभूव ॥६॥

इयं विसृष्टिर्यत आबभूव यदि वा दधे यदि वा न ।

यो अस्याध्यक्षः परमे व्योमन्त्सो अङ्ग वेद यदि वा न वेद ॥७॥

Hindu Songs, Chants & Prayers more
  • country:
  • Languages:Sanskrit, Bengali
  • Genre:Religious
  • Official site:
  • Wiki:http://en.wikipedia.org/wiki/Hinduism
Hindu Songs, Chants & Prayers Lyrics more
Hindu Songs, Chants & Prayers Featuring Lyrics more
Hindu Songs, Chants & Prayers Also Performed Pyrics more
Excellent Songs recommendation
Popular Songs
Artists
Songs